SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ स्याद्वादबोधिनी-११६ ॐ मूलश्लोकःसा वासना सा क्षणसन्ततिश्च, नाभेद - भेदानुभयै . घंटेते । ततस्तटादशिशकुन्त - पोत-, न्यायात् त्वदुक्तानि परे श्रयन्तु ॥ १६ ॥ * अन्वयः-सा वासना, सा क्षणसन्ततिः च (एते द्वे अपि) अभेदभेदानुभयैः न घटेते। ततः परे तटादशि शकुन्तपोतन्यायात् त्वदुक्तानि श्रयन्तु । + स्याद्वादबोधिनी-बौद्धा स्मृतिरन्यथोपपत्ति समर्थनाय परे द्वे कल्पने कल्पयन्ति एका वासना, अपरा सन्तानपरम्परा । ते द्वे अपि कलिकालसर्वज्ञ श्री हेमचन्द्राचार्येण युक्त्या निरस्ते । तयोर्मध्ये कतरो भेदः ? मृगगतवासना-वासितवसनमेवाद्यविषये उदाहरणम् । वसनकभागे क्वचिदपि कस्तूरिका भागः प्रक्षिप्यते न तु सर्वत्र तथापि सौरभं सर्वाणि वस्त्राणि मोदयति-सुरभितानि करोति तथैव कस्मिँश्चित् क्षणे निहिता वासना सा सर्वान् क्षणान् क्षणिकपदार्थान् वामयति तेन स्मृतेर्नानुपपत्तिः । सन्तान-परम्परा तु एका क्षीयमाणा दीपकलिका स्वसमानाकारान् अपरानपि क्षणान् जनयित्वैव प्रयाति । सापि अपरान् एवं क्रमेण द्वयोर्भेदो दशितो बौद्धैः ।
SR No.002335
Book TitleSyadwad Bodhini
Original Sutra AuthorN/A
AuthorJinottamvijay Gani
PublisherSushil Sahitya Prakashan Samiti
Publication Year1997
Total Pages242
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy