________________
स्याद्वादबोधिनी-१०० अपि तु पूर्वजानां मुखैः श्रूयते । अतो भवविनाशात् तदन्तरवत्तिनां क्षणिकवादिनामपि विनाशप्रसङ्गः, कः क्षणिकवादं प्ररूपयति ? तृतीयोऽयं दोषः ।
___ 'प्रमोक्षभङ्गमिति'। प्रकृष्टो मोक्षः प्रमोक्षः सर्वकर्मणां मूलतोन्मूलनरूपम् । न हि मूलेन छिन्ना कापि लता प्ररोहति । स च मोक्षो यद्यप्यस्माभिर्न दृष्टस्तथाप्यनन्तज्ञानिभिः प्रतिपादितत्वात् । तदनुगामिभिः मुनिभिरागमरूपदिव्यालोकेन मोक्षो दृष्टोऽतो तत् स्वरूपं प्ररूपयन्ति। मोक्षोऽपि बौद्धमते क्षयिष्णुः स्यात्-इति चतुर्थो दोषः । __ 'स्मृतिभङ्गमिति'। अनुभूतस्यैव निरुपेक्षं प्रयत्नजन्म-दृढ़तरसंस्कारवशात् कालान्तरे स्मृतिर्भवति । इन्द्रियार्थसन्निकर्ष विनापि-'स्मरामि गिरिराजं यस्योपकण्ठे शत्रुञ्जया सरिद् वहतीति' । सुगतमते शरीरमेव प्रात्मा । तस्यापि तन्मतेन क्षणविनाशित्वात् । येन शरीरेणानुभूतं तद्विनष्टम्-इदमपरं शरीरमतो स्मृतिर्न स्यात् व्यधिकरणत्वात् । नित्यात्मवादपक्षे एव सायुज्यते । द्रष्टाः, अनुभवकर्ता, स्मर्ता एक एव प्रात्मा। येनानुभूतः तेन स्मृतोऽतः एकाधिकरणवृत्तित्वं तत्र घटते । एवमनात्मवादि-बौद्धमते स्मृतिज्ञानं न घटते। स्मृतेः स्थाने