________________
स्याद्वादबोधिनी-१०७
धिया तां करोति । येन परेऽपि एवं जनतोपकारिणः स्युः। क्षणिकवादिमते जले कृतरेखावत् तदानीं प्रणष्टाः कथमसौ परोपकारी आसीत् इति व्यवहृतिः स्यात्ः अतः क्षणिकवादिमतेऽयं प्रथमो दोषः ।
द्वितीयस्तु-'प्रकृतस्य भोगः'। नित्यात्मवादिमते यावन्न मुच्यते तावत् कृतानां शुभाशुभकर्मणां फलं सुखदुःखादिः, तेनैव जीवेन भुज्यतेऽयं नियमः। न हि परकृतं परेण भुज्यते । तथा सति जगति को व्याप्रियेत ? यदि परकृतं फलमुपभुज्यते, तहि अयमेव दोषः-कोऽपि चौर्य करोतु कोऽप्यन्यः कारागारं गच्छतु, नायं नियमः। यस्तथा करोति स एव कारागारिको भवति । कार्यकारणयो-रेकाधिकारत्वं न तु व्यधिकरणम् । अयं द्वितीयो दोषः ।
'भवभङ्गदोषमिति'-भवन्ति जनाः यस्मिन् स भवः । भूधातोः 'ऋदोरप्' इति सूत्रेण उवर्णान्तात् 'अप' गुणावादेशो भवः-दृश्यं जगत् इति । बौद्धमते उत्पत्तिकाले भवन्त एव सर्वे पदार्थाः मूलतो विनष्टा एव तदा क्व भवः, विनष्टत्वात् ? कथं दृश्यं-द्रष्टु योग्यम् कथ्यते। यो हि पदार्थः सन् स एव चाक्षुर्विषयो भवति । जनाः तं पश्यन्ति । अतो दृश्यं कथ्यते । न हि विनष्टं दृश्यते ।