________________
स्याद्वादबोधिनी-१०६ माणं पदं प्रत्येकमभिसम्बद्यते)। साक्षात्, उपेक्ष्य, क्षणभङ्गम्, इच्छन् ते, परः, अहो महासाहसिकः ।
+ स्याद्वादबोधिनी-कलिकालसर्वज्ञः श्रीहेमचन्द्राचार्यः सम्प्रति क्षणिकवादिसुगतमतं निराकरिष्णुराह-कृतप्रणाशेति । द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम भिसम्बद्धते' इति नियमः। प्रकृते कृतप्रणाशश्च अकृतकर्मभोगश्च भवभङ्गश्च प्रमोक्षभङ्गश्च स्मृतिभङ्गश्च एतेषां पञ्चानामितरेतरयोगद्वन्द्वसमासः । ते दोषाः तान् । अतः दोषशब्दस्य प्रत्येकेन अन्वयः । परः प्रतिपक्षी क्षणिकवादी सुगतः केवले क्षणिकवादं स्वीकरोति । हे प्रभो ! तन्मते एते पूर्वोक्ताः दोषाः अवश्यम्भाविनस्तथापि तान् उपेक्ष्य अनादृत्य तत्र गजनिमीलिकां कुर्वन् क्षणिकवादमेव समर्थयति । एवं सति महासाहसिकोऽसमीक्ष्यकारी कथ्यतेऽसौ धीधनैः । अहो परम् उपहासार्थम् उपहासपदार्थद्योतकमव्ययम् । यदि सिद्धान्तप्रवर्तकः सुगत एव दोषान् परिगण्य प्राकृतजनवत् प्रवर्तते तदा तदनुयायिनां का कथा ? इति संक्षेपेणार्थसमन्वयः।
एककपदमादाय पुनश्च विविच्यते-'कृतप्रणाशेति' । कृतस्य प्रणाशः स एव दोषस्तम् । कृतप्रकाशदोषम् । सर्वोऽपि जनो मत्कृता जनतोपकृतिश्चिरस्थायिनी स्यादिति