________________
स्याद्वादबोधिनी-६६
सर्वथा शून्यमेव वास्तविकं तत्त्वम् । अनुमानानुमेयात्मको व्यवहारो बुद्धिजन्यः । वस्तुत: बुद्धेर्बहिः सत् असद् वा नास्ति किमपि वस्तु । अतएव प्रोक्तम्
नासन्न सन्न सदसन्न चाप्यनुभयात्मकम् । चतुष्कोटिविनिर्मुक्त, तत्त्वं माध्यमिका विदुः ॥ अन्यच्च माध्यमिकाकारिकायाम्न स्वतो नापि परतो, न द्वाभ्यां नाप्यहेतुतः । उत्पन्नजातु विद्यन्ते, भावाः क्वचन केचन ॥
जैनः पूर्वोक्त बौद्ध मतमुन्मतभाषितमिव न श्रद्दधते जनाः। यतो हि प्रमातृ - प्रमेय - प्रमाण - प्रमितिप्रत्यक्षानुमानादीनां सिद्धिः प्रमाणैरेव भवति ।
___ 'अहं दुःखी, अहं सुखी' इत्यत्र अहंपदेन प्रमाता (आत्मा) सिद्धयति । बाह्यपदार्थानां ज्ञानमनुभवात् सिद्धम् । बाह्मपदार्थानाम् अनुभवाद् वासना सम्भवा । प्रतएव प्रमेयम् अपि स्वीकार्यम् । प्रमेये स्वीकृते सति ज्ञानरूपक्रियाया अपि किमपि कारणं स्यात् । तस्मात् प्रमाणं. सिद्धम् । यथा-कुलिशेन कुठारेण वा छिदिक्रिया तथैव ज्ञानरूपक्रियायाः कारण मावश्यकम् पदार्थज्ञाने पदार्थ