________________
स्याद्वादबोधिनी- १८
शून्यवादिभिः प्रमेयमेव नास्तीति स्वीक्रियते । प्रमेयमस्तीति परिज्ञाय युक्त्या साध्यते - प्रमातु योग्यं प्रमेयम् - यथार्थज्ञानविषयः । प्रपूर्वक मा धातो 'चो यत्' इति कर्मणि यत् प्रत्यये 'ईद्यति' इति विभक्तिकार्ये प्रमेयम्इति साधु । ' अनुविद्धमेव ज्ञानं सर्वं शब्देन भासते' वाक्यपदीयवचनात् शास्त्रं प्रमाणम् । सर्वे आगमाः शास्त्राणि च शब्दमयानि गीतायामपि प्रोक्तम्- 'तस्माच्छास्त्रं प्रमाणं ते, कार्याकार्य व्यवस्थितौ ।' परेऽपि विद्वांसः महाप्रमाणभूतस्वरूपं शास्त्रमाश्रित्य स्वपक्षं समर्थयन्ति । बौद्धाः स्वीकुर्वन्ति यत् सर्वे पदार्थाः शून्याः प्रमाता - प्रमेयप्रमाण - प्रमिति नामवास्तवत्वात् । प्रमाता ( आत्मा ) इन्द्रियैरग्राहयोऽत एव प्रत्यक्षाभावादात्मन: सिद्धिर्न भवति । अनुमानादपि आत्मा साधयितुमशक्यः, यतो हि केनापि हेतुनात्मन: सिद्धिर्न भवति ।
,
आगमाः शास्त्राणि च परस्परं विरोधसम्पृक्तानि, अतः श्रागमप्रमाणेनापि श्रात्मन: सिद्धिर्न । प्रत्यक्षानुमानाभ्यां बाह्यपदार्थानां सिद्धिर्भवितुं नार्हति । श्रविद्यया वासनयैव बाह्यपदार्थाम् प्रभावे घटपटादि पदार्थानां ज्ञानमुदेति । अतएव नास्ति प्रमेय किमपि वस्तु | प्रमेयाभावात्
प्रमाणमपि नैव ।
प्रमाणाभावात् प्रमिति नेति । अतः