________________
स्याद्वादवोधिनी-६७
स्वीकरोतीति कृत्वा तं क्षिपन्नाह-विनाप्रमाणमिति । अयं भावः प्रमाणमनेकविधं प्रत्यक्षानुमानोपमानशाब्दम्न्यायदर्शनमते चत्वारि प्रमाणानि । प्रभाकरमते अर्थापत्तिः प्रमाणम्, सम्बन्धोऽपि प्रमाणम् ।
श्रीजनदर्शनमते द्वे एव प्रमाणे प्रत्यक्षं परोक्षं चेति । प्रत्यक्षं तावत् अवधेरारभ्य केवलज्ञानम् । परोक्षं तु मतिज्ञानं श्रुतज्ञानं चेति । सर्वे दार्शनिकाः प्रमाणं स्वीकुर्वन्ति तेन स्वं स्वं पक्षं समर्थयन्ति । अतएव जगति प्रतिष्ठां लभन्ते । शून्यवादी बौद्धस्तु प्रमाणशून्यस्तहिकथमिव तत्पदं लभेत। प्रामाणिका एव जनैर्मान्या भवन्ति न चापरे । तद्वत् सोऽपि पक्षसमर्थनाय प्रतिष्ठाकामुकः सन् कमपि प्रमाणं स्वीकुर्यात् । तथा कृते तु तस्मै शून्यवाद-सिद्धान्त रूपः कृतान्तः (यमः) कुप्येत् । यथा स्वामी स्वेच्छानुगामिने सेवकाय कुप्यति । यदि स स्वामिवचनानुसारेण नैव प्रवर्तते, तदा तु क्रुध्यन्नसौ तस्य सर्वस्वं हरति ।
अतः हे देवाधिदेव ! जिनेश्वर ! त्वदन्येन विद्वेषिणा यत्किञ्चिदपि शून्यवादरूपं मतं प्रत्यपादि तत् तूपहासकरं वच एवेति श्लोकार्थः ।