________________
स्याद्वादबोधिनी-८८
जनक: कथ्यते-पालान् कथितः पिता। पुत्रस्तु मातृ-पितृ संयोगानन्तरं भवति महता कालेन । न हि यदा यदा तयोः संयोगः तदा तदा पुत्रोत्पत्तिः । तथा सति संयोगाऽनेकत्वे पुत्राणामनेकत्वापत्तिः भूमौ स्थातु स्थानमपि न स्यात् । एवमेव प्रमाणफलेऽपि भिन्ने । प्रमीयते वस्तुनिष्ठत्वं येन तत् प्रमाणम् । प्रमेयं तु प्रमाज्ञाननयम् तेन प्रत्यक्षकारणानि इन्द्रियाणि, कारणत्वेन प्राग्वर्तीनि तैर्जन्योऽयं घटः । इदं तस्य रूपम् । अयं तस्य जलाहरणादिरूपयोगः । इदं हि फलम्-. विभक्त्यन्त - मुपज्ञानलक्षणाम् अविभक्त्यन्तं यद् वा अगुल्या निर्देशः-पदार्थसार्थलक्षणम् । तस्मात् प्रमाणफलयोनॆक्यं स्वीकार्यम् ।
राहोः शिरः इति परित्यज्य सर्वत्र षष्ठीभेदिका भवति । षष्ठीविभक्त : प्रयोगः भेदप्रतिपादनाय विधेयः । यथा राज्ञः पुरुषः । पितुः पुत्रः तथैवेदम्-अस्य प्रमाणस्य फलमिति व्यवहारः । अभिन्नत्वे सर्वेषां तत् स्यादतः प्रमाण फलयोः बोधिका षष्ठी क्रियते । यद्यप्युक्तविवेचनेनैव गतार्थता तथापि भावनामादृत्य किञ्चिद् विविच्यते धर्मोत्तरेण बौद्धेन न्यायबिन्दुसूत्रं विवेचयता कथितम् ।