________________
स्याद्वादबोधिनी-८६
अर्थसारूप्यमस्य प्रमाणम् । तद्वशार्थ-प्रतीतिसिद्धः । "नीलनिर्भासं हि विज्ञानं यतस्तस्माद् नीलस्य प्रतीतिरवसीयेते। येभ्यो हि चक्षुरादिभ्यो ज्ञानमुत्पद्यते, न तद्वशात् तज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितु नोलसदृशं त्वनुभूयमानं नीलस्य संवेदनमवस्थाप्यते । न चात्र जन्यजनकभावनिबन्धनः साध्यसाधनभावः । येनैकस्मिन् वस्तुनि विरोध: स्यात् । अपि तु व्यवस्थाप्यव्यवस्थापकभावेन तत एकस्य वस्तुनः किञ्चिद्रूपं प्रमाणं किञ्चित् प्रमाण फलं न विरुध्यते । व्यवस्थापनहेतुहि सारूप्यं तस्य ज्ञानस्य व्यवस्थाप्यं च नीलसंवेदनरूपम् । श्री जैनदर्शन-जैनमतानुसारेण नैतदपि संगतम् । स्याद्वादमञ्जयाँ प्रोक्तम्
एकस्य निरंशस्य ज्ञानक्षणस्य व्यवस्थाप्यव्यवस्थापकत्वलक्षण-स्वभावद्वययोगात् व्यवस्थाप्यव्यवस्थापक भावस्यापि च सम्बन्धत्वेन द्विष्टत्वादेकस्मिन्नसम्भवात् । किञ्च, अर्थसारूप्यमर्थाकारिता । तच्च निश्चयरूपम्, अनिश्चयरूपं वा? निश्चयरूपं चेत्; तदेव व्यवस्थापकमस्तु, किमुभयकल्पनया ? अनिश्चितं चेत् स्वयमव्यवस्थितं कथं नीलादिसंवेदन-व्यवस्थापने समर्थम् ? अपि च केयमर्थकारिता ? किमर्थग्रहणपरिणाम: ? पाहोस्विदर्थाकारधारित्वम् ?