________________
स्याद्वादबोधिनी-८७
च्छेदरूपमेव ज्ञानमुत्पद्यते । न च परिच्छेदाऽन्यद् ज्ञानफलम्, भिन्नाधिकरणत्वादिति । पार्श्वदेवकृत् न्यायप्रवेशपञ्जिकायामपि सर्वथा प्रत्यक्षानुमानाभ्यां भिन्न फलं नास्तोति । ज्ञानाव्यतिरिक्त यदुच्यते फलं हानोपानादिकं तदा तत् फलं प्रमातुरेव स्यान्न ज्ञानस्य । तथाहि ज्ञानेन प्रदर्शितेऽर्थे हानादिकं तद् विषये पुरुषस्यैवोपजायते । अतो हानादिकस्य भिन्नाश्रयत्वान्न फलत्वं मन्तव्यम् ।
अयं भावः-बौद्धाः संगिरन्ति यत् एकस्मिन्नेव क्षणिके काले कार्यकारणी भवतः । भिन्नाधिकरणे कार्य-कारण भावो न स्यात् । प्रमाणपरिच्छेदकम् । प्रमीयतेपरिच्छिद्यते वस्तुतत्त्वं तत् प्रमाणम् । प्रमाफलेऽभिन्ने, न तु पृथक् । तदिदं सर्वमसङ्गतं बौद्धमतमिति जैनसिद्धान्तः।
यद्यपि कार्य-कारणौ एकाधिकरणत्तिनौ तथापि न तयोरेकता। घटोत्पत्तौ चक्र-चीवर-दण्ड-कुलाल-योगादयः । एकस्मिन् समये चक्राधिकरणे सन्तोऽपि सर्वे भिन्ना एव प्रतीयन्ते न तु घटरूपाः । अतः कार्य-कारणयोरेकत्वं नात्र स्वीकार्यम् । कारणं प्रथमं मतम् । कारणजन्यं कार्यमिति सर्वेः स्वीकृतम् । सत्येकस्मिन् कार्ये न हि कार्यकारणभावो नापि जन्यजनकभावो भवति । पिता