________________
स्याद्वादबोधिनी-८६
[ १६ ] सम्प्रति प्रमाणादेकान्तेनाभिन्नं प्रमाणफलमाहुः, ये च बाह्यार्थप्रतिक्षेपेण ज्ञानाद्व तमेवास्तीति ब्रुवते । तन्मतस्य (बौद्धस्य) खण्डनं कुर्वन्नाहॐ मूलश्लोकःन तुल्यकालः फलहेतुभावो ,
हेतौ विलीने न फलस्य भावः। न संविदद्वत-पवेऽर्थ संविद् ,
विलूनशीणं सुगतेन्द्रजालम् ॥ १६ ॥ * अन्वयः-फल-हेतुभावः, तुल्यकालः न। हेतौ विलीने, फलस्य भावः न । संविदद्व तपवे अर्थसंविद् न । (अतः) सुगतेन्द्रजालं विलूनशीर्णम् (भवति)।
+ स्याद्वादबोधिनी-बौद्धाः स्वीकुर्वन्ति यत् प्रमाणस्य प्रमाणफलस्यैकान्तरूपेणाभिन्नत्वमस्ति । दिङ्नाशविरचिते न्यायप्रवेशे सिद्धान्तोऽयमेवं समुल्लसति-उभयत्र तदेवज्ञानं प्रमाणफलमधिगमरूपत्वात् । याकिनीमहत्तराधर्मसूनुश्रीमद्हरिभद्रसूरीश्वराणां कृतन्यायप्रवेशवृत्तौ व्याख्यातम्उभयत्रेति प्रत्यक्षेऽनुमाने च तदेव ज्ञानं प्रत्यक्षानुमानलक्षणं फलम् । अधिगमरूपत्वादिति-परिच्छेदरूपत्वात् । परि