________________
सौम्येह मूर्ताः यदि हेतवः स्युः ,
कुतस्तदैते नहि पुण्यपापे । मूर्ते विजानासि स्वयं विवेकात् ,
कार्यस्य चेत् कारणता समाना ॥ १५ ॥ जीवस्थितं सक्रिययोत्थितं यत् ,
सर्वं हि पुण्यं त्वमवेहि भाव । तस्माद् विरुद्धं द्विज ! पापमस्ति ,
युक्त्या नयैवाचल ! विद्धि सर्वम् ॥ १६ ॥ सौम्ये हि कार्यस्य च कारणस्य ,
कार्यानुरूपं किल कारणं स्यात् । जीवस्य विद्वन् ! परिणाम उक्तः ,
सुखस्य दुःखस्य च नामधेयात् ॥ १७ ॥ पूर्वोदिताभिः किल युक्तिभिः भो ,
सिद्धः भवेतां द्विज पुण्यपापे । स्कन्धस्तयोः पुद्गल एक एव , एतद्वयं
चित्रितपत्रवच्च ॥ १८ ॥ एवं विधैर्वीरजिनेन्द्रवाक्यैः ,
सयुक्तिपूर्णरथ बोधमाप्तः। वीतस्वशङ्कोऽचलबन्धुरेषः ,
गृहीतवान् जैनपदेन दीक्षान् ॥ १६ ॥ ॥ इति श्रीगणधरवादकाव्ये 'अचलभ्राता' नामक गणधरस्य वर्णनम् ॥