SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सौम्येह मूर्ताः यदि हेतवः स्युः , कुतस्तदैते नहि पुण्यपापे । मूर्ते विजानासि स्वयं विवेकात् , कार्यस्य चेत् कारणता समाना ॥ १५ ॥ जीवस्थितं सक्रिययोत्थितं यत् , सर्वं हि पुण्यं त्वमवेहि भाव । तस्माद् विरुद्धं द्विज ! पापमस्ति , युक्त्या नयैवाचल ! विद्धि सर्वम् ॥ १६ ॥ सौम्ये हि कार्यस्य च कारणस्य , कार्यानुरूपं किल कारणं स्यात् । जीवस्य विद्वन् ! परिणाम उक्तः , सुखस्य दुःखस्य च नामधेयात् ॥ १७ ॥ पूर्वोदिताभिः किल युक्तिभिः भो , सिद्धः भवेतां द्विज पुण्यपापे । स्कन्धस्तयोः पुद्गल एक एव , एतद्वयं चित्रितपत्रवच्च ॥ १८ ॥ एवं विधैर्वीरजिनेन्द्रवाक्यैः , सयुक्तिपूर्णरथ बोधमाप्तः। वीतस्वशङ्कोऽचलबन्धुरेषः , गृहीतवान् जैनपदेन दीक्षान् ॥ १६ ॥ ॥ इति श्रीगणधरवादकाव्ये 'अचलभ्राता' नामक गणधरस्य वर्णनम् ॥
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy