________________
स्वभावसिद्ध यदि दुःखसौख्यै ,
तदातु भो! स्रग्गरलादिकानाम् । अहेतुता स्यादनपेक्षिताया ,
___ तस्मात् स्वभावान् नहि ते भवेताम् ॥ १० ॥ यदि स्वभावेऽनुपलब्ध आर्य ! ,
कर्तृत्वभावोऽचल मन्यते चेत् । तदा सुसिद्ध किल कर्मणीह ,
कुतो निषिध्येत हि कर्तृ तेयम् ॥ ११ ॥ यदोदयः स्याद् खलु सातकर्मणां ,
तदैव सौख्यं फलमाप्यते जनः । असातकर्मप्रभवं फलं भवेत् ,
शरीरिणां केवलमात्तिदायकम् ॥ १२ ॥ प्रथात्मनो वै परिणामभावात् , . सुखं च दुःखं यदि रूपिणी नो। तदा किमर्थं ननु पुण्यपापे ,
ह्यरूपिणीति त्वयका न शङ्कयम् ॥ १३ ॥ यतो हि भावाः सकलाः द्विजेन्द्र ! , . तुल्या अतुल्या इति नास्ति दोषः । तथा च विद्वन् ! सुखदुःखयोहि ,
स्रकचन्दनाद्याश्च विषादिकानि ।। १४ ॥
( ३९ )