________________
एवंविधेष्वचल-सत्सु विकल्पकेषु ,
___ दोलायते तव मतिः किल संशयाप्ता.। सम्प्रत्यहं तव समाधय एष वच्मि , . त्वं मे निशामय वचो विहितावधानः ॥ ५ ॥ तुर्यो विकल्प इह पञ्चविकल्पकानां , मान्योऽस्ति नोऽपि मतिमन् ! शृणु कारणं यत् । वस्त्वत्र पुण्यमयपापमयत्वरूपाद् ,
वाच्यं यतो भवति पौद्गलिकं हि कर्म ॥ ६ ॥ प्राद्यानुपेक्ष्य कथितानिह भङ्गकांस्तु,
चर्चाक्रियेत विबुधात्र हि पञ्चमस्य । . योऽयं स्वभाव उदितः स च कीदृशोऽस्ति ,
मूर्तोऽथवा नय इवायममूर्तरूपः ॥ ७ ॥ चेन्मूर्त एष तत आर्य हि कर्मसिद्धिः ,
यानो मतास्त्यचलनो यदि मूर्तताऽस्य । कार्य भवेदहहो नूनमकार्यमत्र ,
दुष्टं मतं च तवकं द्विजराज ! सिद्धयेत् ॥ ८ ॥ त्वं वस्तुधर्म इति चेन्मनुषे स्वभावं ,
प्राग्वद् विरोध इह सौम्य मते त्वदीये । चेद् वा स्वभावपदवाच्यमकारणत्वं ,
ताकदेव पतिताः स्युरशेषभावाः ॥ ६ ॥
(
३८, )