________________
नवमश्रीअचलभ्रातगणधरः
श्रीवर्द्ध मानवचनामृतपानकर्तृन् ,
नैकान् मुनीनचलबन्धुरवेत्यमुक्तान् । मोक्षेच्छया स्वयमपि ब्रजतिस्म शीघ्र ,
शिष्यैः समं भगवतः जिनपस्य पावें ॥१॥ यावत् कृताञ्जलिरसौ प्रणनाम वीरं,
तावत्स आह भगवानचलैहि सौम्य । त्वं शङ्कसे श्रुतिपदानवबोधते वै , . स्यातां सती किम ननु भुवि पुण्यपापे ॥ २ ॥ एके वदन्ति विबुधाः सुखदुःखहेतुं ,
उत्कर्षतो ह्य पचयेन च पुण्यमेव । हान्यास्तथोपचयतश्च हि केचिदत्र ,
सौख्यासुखप्रदमिदं ननु पापमेव ॥ ३ ॥ अन्ये पृथक्-पृथगिमे इति चापरे तु, .. पाहुद्विवर्णमरिणवद् ध्र वमेकमेव । स्वाभाविके तनुभृतामिह दुःखसौख्ये ,
कि पुण्य-पापफलनादिति मन्वतेऽन्ये ॥ ४ ॥
(
३७ )