________________
wwwwwwwwwwwwwwww दशमश्रीमेतार्यगणधरः
१
marnamannamraamaamanaram.
प्रभाव
अथेन्द्रभूत्यादिमहीद्विजानां ,
मुक्तात्मनां वीरवचः प्रभावात् । प्राकर्ण्य वृत्तं निजमुक्तिकामी , मेतार्यविप्रः
प्रभुमाससाद ॥१॥ कृतः प्ररणामं तमुवाच वीरः , . मेतार्य ! ते स्वागतमाचरामि । किमस्ति वा नो परलोकवस्तु :
. इति त्वदीयः किल संशयोऽस्ति ॥ २ ॥ शरीरधर्मः किल चेतनेयं , __मृते शरीरे न भवान्तराप्तिः । मद्ये यथा मादकता तथेयं ,
चेद्देहजानामपि ततोऽन्यलोकः ॥ ३ ॥ यद्यैकसूर्यः प्रतिबिम्बतोऽप्सु , . व्याप्तस्तथात्मा प्रतिदेहमेकः । चेद् व्यापकत्वान्ननु देहनाशे ,
कुतोऽन्यलोके गतिमानयं स्यात् ॥ ४ ॥
( ४१ )