________________
अकम्पितातस्तव चित्तमध्ये ,
उदेति शङ्का खलु नारकेषु । दत्त्वावधानं शृणु मेऽत्र वाणी ,
यया समाधानमवाप्स्यसि त्वम् ॥५॥ सिंहादयो यद्यपि चेन्न दृष्टाः ,
कैश्चिज्जनः सन्ति तु ते तथापि । प्रत्यक्षमेवं तव नारकाः नो ,
परन्तु मे ते प्रकटाः विभान्ति ॥ ६॥ मदुक्तिमाधाय ननु प्रमारणं,
सत्ता विबोध्या तव नारकारणाम् । ' यतः प्रमाणेषु यथार्थवस्तुः ,
वचः प्रमारणं कथितं तु तज्जैः ॥ ७ ॥ ज्ञानं यदत्रेन्द्रियसम्भवं तत् ,
प्रत्यक्षमित्येव न धारणीयम् । तदवस्तुतः सौम्य ! परोक्षमेव ,
यदात्मनस्तेन परोक्षताऽस्ति ॥८॥ उरणादि सिद्धो ह्यशिधातुजो यः ,
अस्त्यक्ष शब्दो ननु तेन वाच्यः । प्रात्मा गतं तं प्रति यद् भवेत् तत् ,
प्रत्यक्षमुक्त किल तत्त्वविद्भिः ॥ ६ ॥
( ३४ )