________________
त्वमिन्द्रियैः वेत्सि न नारकान्यान् ,
तानात्मनाहं किल वेद्मि भद्र ! । मनोगतं तेऽपि च भावनीक्षे ,
प्रत्यक्षमेवं ममकं प्रतीहि ॥ १० ॥ एतावताऽप्यार्य ! मनो न तुष्टं ,
अर्थात्तुपत्ति ननु मानपे यद् । पीनो नरश्चैष दिवा न भुङक्त ,
__ अर्था निशायामिति पीनभावात् ॥ ११ ॥ उत्कृष्टयोगाय सुरा यथोक्ताः ,
एकान्तदुःखाय तथैव सौम्य । मन्यामहे नैरयिकान् विना कान् ,
ब्रूहि त्वमेवोत्तरमत्र किञ्चित् ।। १२ ।। तिर्यङ नरा आर्य ! न भुञ्जते तु ,
एकान्तदुःखानि यतो हि तेषाम् । दुःखाद् विरामोऽपि यदा कदाचित् ,
परन्तु तावत् नहि नारकारणाम् ॥ १३ ॥ तिर्यङ नरा ये बहुदुःखभाजः ,
तेऽत्रोपमेयाः किल नारकैः स्युः । अकम्पितैवं ह्य पमाप्रमारणाद् ,
अवैहि सत्तां बुध ! नारकारणाम् ॥ १४ ॥