________________
अष्टमश्रीअकम्पितगणधरः
अकम्पितो वीरजिनोक्तमार्गे ,
गृहीतदीक्षं तु निशम्य मौर्यम् । श्रीवर्द्ध मानप्रभुवन्दनायै ,
तदन्तिके शीघ्रमगात्स तन्त्रः ॥१ ॥ दृष्ट्वा तमूचे जिननाथ एवं ,
अकम्पित ! स्वागतमस्तु भद्र ! । चित्ते त्वदीये किल संशयोऽयं ,
यन्नारकाः सन्ति नवेति सौम्य ! ॥२॥ वीक्ष्यन्त एताः किल तारकास्तु ,
तथा प्रतीतिः ननु देवतासु । तिर्यग् नरास्ते प्रगटाः जगत्यां ,
परन्तु जानासि न नारकांस्त्वम् ॥ ३ ॥ गतिस्तुरीया निरयाभिधाना , . या प्राणिनामुच्यत आर्य ! तत्र । गता हि जीवास्त्वयका न दृष्टाः , __केनापि लिङगेन च नो गृहीता ॥ ४ ॥
( ३३ )
गण-३