________________
मायोपमत्वमिति यद् गदितं सुराणां,
तत् साधकं ामरसम्पदनित्यतायाः । नोचेदयं मखविधिः सकलो वृथा स्यात्,
उद्दिश्य कि फलमहो विदधीतकोऽपि ॥ १० ॥
इत्थं वीरस्य वाचोऽमृतरसमधुराः कर्णयुग्मेन पीत्वा,
देवत्वे चास्तशङ्क प्रणतिनतशिरा वीरपादौ ववन्दे जैने धर्मे च निष्ठामचकरदचिरं शिष्ययूथेन साध, तत्कालं दीक्षितोऽभूज्जिनपति-वचसा मौर्यपुत्रो
द्विजेन्द्रः ॥ ११ ॥
॥ इति श्रीगणधरवादकाव्ये सप्तमश्रीमौर्यपुत्र
गरणधरस्य वर्णनम् ॥
(
३२ )