________________
एवं च खे भ्रमदिदं ननु तारकारणां, चक्रं न पश्यसि समुज्ज्वलदच्छकाक्षि ।
नैतत् प्रमेयमनलामृतयोविकारः
,
तत्त्वं जडं न गतिमत् प्रवदन्ति विज्ञाः ॥ ५ ॥
चेदालयान् मनुष एतदशेषचक्रं,
ये त्वत्र भाव ! निवसन्त्यमराः ध्रुवं ते । एवं च लोकपतयः परितः सुराद्रि,
मौर्य ! भ्रमन्ति नियता स्थितिरत्र लोके ॥ ६ ॥
1
देवास्तथा च मनुजान् प्रतिदुःखसौख्ये यलम्भयन्त इति सौख्य सुसिद्धमेव । यस्माच्च ते न नयनायनगोचराः स्युः,
तत् कारणं भवति वैक्रियिकाययोगः ॥ ७ ॥ स्थूलं च सूक्ष्मलघुलम्बमिदं शरीरं,
कर्त्तुं क्षमादि विषदो विविधक्रियातः । तद् वैक्रियं कथितमार्य ! बुधेस्तु शास्त्रे,
एवं स्थिति सुमनसां त्वमवेहि सौम्य ! ॥ ८॥ यन्नारकाः विविधपापफलोपभुक्त्यै
यद् भुञ्जते च शुभपुण्यफलानि देवाः ।
,
इत्थं हि शास्त्रभरिति समधीत्य मे च
,
वाचो निशम्य बुधमानय देवसत्ताम् ॥ ॥
( ३१ )