________________
rammmmmmmmmmmmmmmmmmm?
सप्तमश्रीमौर्यपुत्रगणधरः
सर्वज्ञतां जिनपतेरथ मौर्यपुत्रः,
आकर्ण्य दीक्षितममुं बुधमण्डितं च । मोक्षे शुभे दृढ समुत्सुकचित्तवृत्तिः,
छात्र: सहागमदसावुपवीरमाशु ॥१॥ तं वीर आह-बुध ! मौर्य ! श्रुतौ यदुक्त, ___ यज्ञैः प्रयान्ति मनुजा अपि देवलोके । मायोपमानथसुरान्ननु कोहि पश्येत् ,
तत्ते विरुद्धकथनात् किल देव शङ्का ॥२॥ त्वं वस्तुतः श्रुतिपदार्थममुं न वेत्सि ,
तच्छंकसे सुमनसां विषये मनीषिन् । त्वत् संशयस्य विदधामि निरासमार्य !
वाचं शृणुष्व मम सम्प्रति सावधानः ॥ ३ ॥ प्रत्यक्षतस्त्वमिह पश्यसि कि न देवान् ,
यः धारिताऽमलमनोहरवेषभूषा । मानिमान् विबुध ! विद्धि न पश्य सम्यक् ,
एतेऽनिमेषनयनाः न तथा मनुष्याः ॥ ४ ॥
( ३० )