________________
अरूपिजीवे ननु मूर्तकर्म
बन्धः कथं स्यादिति नोहनीयम् । घटादिकानां नभसा निबन्धं,
अरूपिणा पश्यसि कि न विप्र ! ॥ १० ॥
यावत् स्वरूपं नहि वेत्ति तावद्,
बद्धोऽयमात्मा सगुरणत्वभावात् । ज्ञात्वा स्वरूपं त्वयमेव विप्र !
मुक्तो निगद्येत हि निर्गुणत्वात् ॥ ११ ॥
इत्थं निशम्य जिननाथसुमिष्टवारणी,
सम्यक्तया विदितवान् ननु बन्धमोक्षौ । नत्वा तदीयचरणौ द्विजमण्डितोऽयं,
छात्रः समं जिनपदेन च दीक्षितोऽभूत् ।। १२ ॥ ॥ इति श्रीगणधरवादकाव्ये षष्ठश्रीमण्डित
गणधरस्य वर्णनम् ॥
(
२९
)