________________
अनादिमान् बन्ध इतीष्यते चेत्,
कदापि तत् स्यान्नहि जीवमुक्तिः । एवं घटते नहि बन्धमोक्षौ,
हे मण्डितातस्तव संशयोऽस्ति ॥ ५॥ अत्रोत्तरं मे शृण पक्षमार्य,
सयुक्ति तेऽहं प्रतिपादयामि । आकण्यं यं स्यात् तव कः समाधिः,
त्वं चात्मनो ज्ञास्यसि बन्धमोक्षौ ॥ ६॥ परस्परं कारणकार्यभावाद्,
जीवस्य बीजाङ कुरवद् द्विजेन्द्र ! ।' सम्बन्धमिष्टं सह कर्मणाऽत्र,
अनादिसन्तानमवेहि नूनम् ॥७॥ स्वस्मिन् यथा सम्मिलितं मृदंशं,
जहाति हेमानलयोगमेत्य । तथायमात्मा घनकर्मजालं,
ज्ञानक्रियाभ्यां दहतीति धार्यम् ॥ ८॥ मिथ्यात्वदोषादिकहेतुसंगाद्,
अज्ञानभावान्ननु या प्रवृत्तिः । क्रियासु जीवस्य विलोक्यतेऽत्र,
तां विद्धयनादि विदुषां वरेण्यः ॥ ६ ॥
( २८ )