________________
।
षष्ठश्रीमण्डितगणधरः warrammarrrrrrrrammm
ततस्तमालय॑ गृहीतदीक्षं,
वीरं गतो मण्डितविप्रवर्यः । सम्बोध्य तं नाम च गोत्रमुक्त्वा, अवोचदित्थं
जगदेकनाथः ।। १॥ वेदे विभुत्वाद् गदितोऽयमात्मा,
व्योमेव नूनं गतबन्धमोक्षः । तत्र व जीवस्य च बन्धमोक्ष,
चर्चा कृता कर्मवशी कृतस्य ॥ २ ॥ एवं विरोधस्तव दृष्टिमार्गे,
यदापतत्यर्थमजानतस्तत् करोषि शङ्का ननु बन्धमोक्षौ,
जीवस्य किं वा भवतो नवास्य ।। ३ ।। जीवस्य बन्धः सह कर्मणा चेत्, . यद्यादिमान् तत्खलु चेतनादेः । निर्हेतुकत्वान्नहि सम्भवोऽपि,
स्याद् वा जिनशृङ्गमिवात्र लोके ॥ ४ ॥