________________
नाटये नटो धारयते यथैकः,
वेषान् विचित्रान् मतिमांस्तथैव । विहाय मोहं निजमानसस्य, ____ सर्वस्य वैचित्र्यमवेहि सौम्य ! ॥ १० ॥ एवं निशम्य जिननाथ - सयुक्तिवाचः,
त्यक्त्वा स्वसंशयमसौ सकलस्य साम्ये । ज्ञात्वाऽचिरं तदनुकर्मविचित्रतां च,
दीक्षां दधौ स्वबटुभिः सहितः सुधर्मा ॥ ११ ॥
॥ इति श्रीगणधरवादकाव्ये पञ्चमश्रीसुधर्म
गरणधरस्य वर्णनम् ॥
*