________________
एवं विरुद्धोक्तित एव शङ्का,
___ समुत्थिता ते हृदि तत् समाधिम् । वदामि भो ! त्वं शृणु सावधानः,
येन क्षयं यास्यति संशयोऽयम् ॥ ५॥ यन्मन्यसे कारणकार्यसाम्यं,
ऐकान्तिको निश्चय एष नैव । भवन्ति भूयांसि पृथक्त्वतोऽत्र,
कार्याणि विद्वन् ! किल कारणेभ्यः ॥ ६ ॥ केनापि योगेन हि लौहमेतत्,
स्वर्णत्वमायाति विलोकय त्वम् । गो लोभतो जायत एव दूर्वा,
जानीहि तद्धतु विचित्रभावम् ॥ ७ ॥ विचित्ररूपात् किल कारणाद्धि,
विचित्र रूपाकृतिरत्र दृष्टा । तस्मादवेही हि शरीरिणां त्वं,
__विचित्रयोनिभ्रमरणं द्विजेन्द्र ! ॥ ८ ॥ पूर्व मयोक्त व हि कर्मसिद्धिः,
क्रिया भवेद या फलनीति सा वै। तस्माद् विचित्रादिह कर्मणो वै,
विचित्रयोनिभ्रमणं सुसिद्धम् ॥ ६ ॥
दृष्टा
।
( २५ )