________________
पञ्चमः श्रीसुधर्मगणधरः
एवं हि सुज्ञाय चतुष्टयस्य,
वृत्तान्तमाकर्ण्य सुधर्मविप्रः। श्रीवर्द्धमानं प्रभुमत्र विश्वे,
धृतावतारं मनसा विबोध्य ॥१॥ शिष्यान् समादाय शतानि पञ्चा
गच्छद् द्विजोऽयं जिनपोपकण्ठम् । वीरस्तमूचे च नतं सुधर्मन् !
विमुञ्च सर्वस्य सहक्षतां त्वम् ॥ २ ॥ याहग् भवेत् कारणमत्र लोके,
ताहग् हि कार्य परिणामकाले । बीजं यथा तस्य फलं तथैव,
नोत्पद्यते निम्बत आम्रवृक्षः ॥ ३ ॥ एवं नरः प्रेत्य ध्र वं नरः स्यात्,
नारी च नार्या अवतारमेति । किन्तु श्रुतौ तद् विपरीतमुक्त,
जीवाः धरन्ते यदनेकदेहान् ॥ ४ ॥
(
२४ )