________________
भूतसंधे।
चतुर्थश्रीव्यक्तगणधरः
mmmmmmmmmmmmmm श्रुत्वा श्रीप्रभुणा जितान् भगवता त्रीनग्रजान् पण्डितान्, व्यक्ताख्योऽपि तमीमिवान् द्विजवरः छात्रैः शतैः पञ्चभिः। सार्धं च प्रणनाम साञ्जलिममुं श्रीवर्द्धमानोऽवदत्, व्यक्त हि त्यज नास्तितां द्रुततरं भूतेषु या ते मता ॥१॥ वेदोदितं ब्रह्मविधौ महत्त्वं ,
तथापलापं किल भूतानि देवा इति भाषितं च,
परस्परं भिन्नमवैषि विद्वन् ॥ २ ॥ न वस्तुतो वेद पदार्थमार्य !
जानास्यतस्तेऽत्र महान् विमोह । न वस्तुनोऽस्ति स्वत एव सिद्धिः,
अतः प्रतीतिस्तव शून्यतायाः ॥३॥ अर्थो हि कार्य व्यवहारतश्च,
स एव भो ! कारणतामुपैति । परस्परापेक्षितया विवेकिन,
स्वतो न सिद्धिः परतोऽपि नैव ॥ ४ ॥
( २१ )