________________
नो चेत् स्वभावं ह्यवलम्ब्य मुञ्चेः ,
निजाग्रहं साक्षर ! तत् स्वभावः । चेच्चिन्मयोऽयं कथमेतु योगं ,
जडेन भो ! भूतकदम्बकेन ॥ १५ ॥ स्वर्गाप्तये यज्ञविधिस्तथार्य ! ,
दानादिकर्माण्यपि भो ! वृथा स्युः । देहे चितायां तु फलानि तेषां ,
जीवाहते को हि लभेत नूनम् ॥ १६ ॥ एवं स प्रात्मा प्रकटश्च भिन्नः ,
चित्तोपयोगी च विभावनीयः । तद् व्यावृति भद्र ! विहाय लोके ,
ज्ञानं समस्तं विहतं बुध ! स्यात् ॥ १७ ॥ पवनभूतिरपि प्रभुबोधितः .
- वपुषि चात्मनि भेद भवेत्य हि । निजखखेषु मितैर्बहुभिः समं ,
शिवपदाप्ति - कृते पथिकोऽभवत् ॥ १८ ॥ ॥ इति श्रीगणधरवादकाव्ये तृतीय श्रीवायुभूति
गणधरस्य वर्णनम् ॥
(
२०
)