________________
मृते तु देहे नदि वायु-वह्नि ,
अतः कुतस्तत्र तु चेतनेति । युक्तो न तर्कः नयतपूर्ति ,
तौ युक्तितश्चेतन सिद्धयतीष्टम् ॥ १० ॥ विशिष्ट-तेजोऽनलयोरभावात ,
मृते शरीरे नहि चेतना चेत् । त्वं तद् विशिष्टं ननु जीवमेष ,
कथं न वेत्ति द्विज ! देहीमन्नम् ॥ ११ ॥ वातायनैः पञ्चभिरीक्षमाणः ,
पुमान् यथा भद्र ! गवाक्षभित्रः । तथेन्द्रियैः पञ्चभिरर्थबोद्धा ,
आत्मापि भिन्नो भवताऽनुमेयः ॥ १२ ॥ प्राद्या शिशोर्या स्तनपान कांक्षा
भिलाषताया अपराभिलाषः । पूर्वाऽस्ति तस्मादभिलाष एषः ,
शरीरभिन्नो गुण प्रात्मनो वै ॥ १३ ॥ दुःखं सुखं चानुभवात्मकं भो ,
अयं गुणश्चानुभवो द्विजेन्द्र ! । कमाश्रितः स्याद गुरिगनं विहाय ,
गुरणी स आत्मेति ततोऽवगच्छ ॥ १४ ॥
( १६ )