SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ दृष्टव तं स प्रभुराह वाचं , हे वायुभूते ! नहि वेत्सि सम्यक् । श्रुतेः पदार्थानत एव भद्र !, त्वमूहसे जीवशरीरभेदे ॥ ५ ॥ यथा सुराद्रव्यसमन्वयेन , उत्पद्यते मादकता तथैव । भूवारिवैश्वानरवायुसंघात् , स्याच्चेतनातस्तनुरेव जीवः ॥ ६ ॥ एवं त्वया नैव विशङ्कनीयं , नोऽधीतवान् कि श्रुतिवाक्यमेतत् । । स्वर्गस्य कामी तु यजेत हीति , वेदेऽपि सिद्धस्तनु जीवभेदः ।। ७ ।। जडानि भूतानि भवन्ति सौम्य , तेषां हि संघो यदि चेतना स्यात् । तदा मिलित्वा सिकतासमूहः , कथं न तैलाभ हि कल्पतेऽसौ ॥ ८ ॥ मृतेऽस्ति देहेऽपि तु भूतसंघः , सा चेतना तत्र कथं च भाति । भूतातिरिक्तस्तत एष जीवः , ___ एवं कुतो वेत्सि न वायुभूते ! ॥६॥ ( १८ )
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy