________________
दृष्टं विनश्यति फलं किल कालयोगात् ,
कस्माद् भवाटनमहो ! घटतेऽस्य जन्तोः । एतद् विचार्य मनसा विमलेन विप्र ,
जानीह्य दृष्टमपि सौम्य ! फलं त्वमत्र ॥ १५ ॥ सैव क्रिया फलति कि ननु यत् फलस्य ,
लिप्सां करोति तनुभृन्मनसि स्वकीये । पीडां स्वबन्धनकृतां किल चौर्यकर्भाऽ
निच्छन्नपीह लभते बत ! दण्डमुग्रम् ॥ १६ ॥ कर्मेदमस्तु परमेतददृष्टमूर्त
मित्यत्र बुद्धिरनुधावति नो मदीया । एवं कदापि मनसा नहि शङ्कनीयं ,
भूयोऽपि मे शृणु वचोऽत्र सयुक्ति भद्र ! ॥ १७ ॥ दुःखं सुखं च यदिदं किल बोध्यतेऽत्र ,
भोज्यस्तथा च दहनादिभिरग्निभूते ! । अस्मिन् स्फुटा भवति कर्मणि मूर्त्तताया ,
सा याति नो तनुतया खलु दृष्टिमार्गम् ॥ १८ ॥ यद् बाह्यवस्तुबलतो गुणधर्मभेदः ,
संदृश्यतेऽत्र सकलः स हि मूर्त आर्य ! । ज्ञानाय भो ! ननु निदर्शनमत्र विद्धि ,
कुम्भो दृढो भवति तैलवृताक्त एषः ॥ १६ ॥
( १५ )