________________
यद् वस्तु विप्र ! गुणधर्मविभेदभावे ,
प्राप्नोति यां परिणति किल भिन्नभिन्नाम् । तद् विप्रराज ! परिभावय मूर्तमेव ,
क्षीरं यथा परिणतौ दधि जायतेऽत्र ॥ २० ॥
यद् योग्यता परिणतं तददृष्टमूर्त ,
सिद्धान्ततस्त्वमवंगच्छ मनो नियोज्य । दृष्टान्ततोऽत्र पवनद्वयणुकादि वस्तु ,
ज्ञात्वार्य ! भावय निजान्तरि कर्मसिद्धिम् ॥२१॥
एवं वीरवचांसि कर्मविषये सयुक्तिपूर्णान्यसौ , श्रुत्वा चेतसि बुद्धवान् प्रभुवरे सर्वज्ञता प्रस्फुटाम् । नत्वा श्रीगुरुपादपद्मयुगलं जैने च धर्मे मति , धृत्वा स्वीयखखेषु छात्रसहितः आसिद् द्विजो दीक्षितः ।२२।
॥ इति श्रीगणधरवादकाव्ये द्वितीषश्रीअग्निभूति
गरणधरस्य वर्णनम् ॥