________________
आलोक्य तं च तदवस्थमयं महात्माऽ
वोचद्विजेन्द्र ! तव संशय एवमस्ति । किं कर्म नो भवति गोचर इन्द्रियाणां ,
__ स्याद् वेति मे शृणु बचोऽत्र कृतावधानः ॥ ५ ॥ हे विप्र ! ते प्रकटस्ति यदेव वस्तु ,
सम्यक्तया प्रकटभावमुपैति मे तत् । केनापि चेच्छरमसिंहगजाः न दृष्टाः ,
तेषामभाव इह भूमितले किमस्ति ॥ ६ ॥ प्रत्यक्षमेतदधुना शृणु साम्प्रतं च ,
चित्तेऽनुमानमपि धारय वह्निभूते । हेतुः फले तनुवतां ननु दुःखसौख्ये ,
यस्तं विभावय विचक्षण ! कर्म नान्यत् ॥ ७ ॥ सौख्यस्य रम्य रमणी रमणादिकं तु ,
दुःखस्य पण्डितवरेण्य ! विषादिकं च । चेत्कारणं त्वमवगच्छसि दृष्टमेव ,
कस्मात् फले विषमता घटते तथाहि ।। ८ ।। रोगाः भवन्ति रमणी-परिभोगतोऽपि ,
तेषां क्षयश्च खलु सेवनतो विषाणाम् । एवं विलोक्य मतिमन् किल कल्पनीयं ,
किञ्चिद्धयदृष्टमपि कारणमग्निभूते ! ॥६॥
(
१३ )