SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ है द्वितीयश्रीअग्निभूतिगणधरः Earmmmmmmmmmmmmmmmmmmmmmmm वाण्यां बृहस्पतिसमं विदुषां वरेण्यं , श्रुत्वाऽनजं जिनपदेन गृहीतदीक्षम् । तस्याऽनुजोऽतिमतिमानभिधाऽग्निभूतिः , चिन्ताव्यथाहतमना अकरोद् विलापम् ।। १ ॥ बन्धोः पराजयसमुत्थितरोषभावः , शिष्यैः वृतोऽम्बर स्वपञ्चमितैः स्वकीयः । तत्रैव सोऽपि गतवान् स्वमताभिमानी , यस्मिन् वने जिनवरः कृतवान् विहारम् ॥ २ ॥ यावद् गतः प्रभुमसौ जिन प्राह तावत् , ते स्वागतं भवतु भूमिसुराऽग्निभूते ! । त्वं चाऽपि बन्धुवदलं त्यज संशयं स्वं, श्रुत्वेति सोऽपि निजचेतसि विस्मितोऽभूत् ॥ ३॥ नूनं महापुरुष एष समस्तवेत्ता , अस्त्यन्यथा परमनोगतमाह कस्मात् । मत्संशयस्य च लयोऽपि भविष्यतीति , चित्ते विचार्य नहि किञ्चिदुवाच विप्रः ॥ ४ ॥
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy