________________
विहाय सत्तानिह वस्तुनः स्यात् ,
न संशयस्थोद्भव इन्द्र भूते ।। अस्तित्वमाश्रित्य हि सर्परज्ज्वोः ,
उत्पत्तिरिष्ट ! खलु तस्य विद्वन् ! ॥ २५ ॥ सद्भावनादाय च संशयस्य ,
ह्यात्मप्रतीति मनसावगन्छ । नास्त्विशङ्का क्रियते तु केन ,
__वन्ध्यासुतस्यात्र विचक्षरणेन ।। २६ ॥ इत्थं त्जच्या भद्र ! विचार्य सम्धक ,
प्रातानुमानेन्द्र विबोधनीयः । वेदे विरोधं च चमोक्षते त्वं ,
तमप्यलं मे गदतो निरस्य ।। २७ ।। ज्ञानस्य तद्वत् किल दर्शनस्यो
पयोगमाहुः विबुधाः महान्तः । विज्ञानमित्येव तयोऽस्तु सन्धं ,
घनं च विज्ञानघनोऽयमुक्तः ।। २८ ।। उत्पत्तिमत्वात् खलु भूतसंघात् ,
स द्रव्यपर्याय इति प्रसिद्धः । उत्थाय चान्तेऽनुबिलीयते च ,
ततोऽस्य न प्रेत्य भवेद् हि संज्ञा ॥ २६ ॥