________________
,
नामान्तरस्योद्भवतो द्विजेन्द्र ! शरीरपर्यायमताविभौ च ।
उत्पत्ति-नाशौ हि शीरमेनं,
वसन्तमुक्त्वा च वदन्ति वेदा ।। ३० ।।
ध्रुवत्वमस्यात्मन इन्द्रभूते !
,
ततः श्रुतेरर्थमवेहि भद्र ! | विरोधहीनं मनसि स्वकीये,
मन्यस्व सत्तामथ देहिनोऽस्य ।। ३१ ।।
तथा च वेदान्तिभिरात्मनोऽस्य : यदैक्यमुक्तं तदवेहि विप्र ! । लिङ्गस्य भेदेन विभिन्नरूपं,
तस्मादनेकाः खलु जीवभेदाः ।। ३२ ।।
विश्वस्य शून्यं विवदन्त एते, विदन्ति बौद्धाः ननु शून्यमेव ।
तस्मान्न सिद्धान्तत एष मार्गः
1
मनास्वभिर्मन्यतया ग्रहीतः ।। ३३ ।।
,
न वस्तु धर्मः किल निश्चयत्वात्, अयं भवेदित्थमयं न वेति
पर्यायतः स्वापरयोहि वस्तु,
सर्वं भवेत् सर्वमयं जगत्याम् ।। ३४ ।।
1 १० )