________________
गुणग्रहे यन्मनसा गृहीतं ,
प्रत्यक्षमेतद् विशदावभासम् । . न केवलं चाक्षुषमेव विद्धि,
प्रत्यक्षमव्याप्तिरहो ! भवित्री ।। २० ॥ . पुष्पस्य गन्धो नहि नेत्रबोध्यः ,
__ जलस्य शैत्यं नहि तेन गम्यम् । गुडस्य माधुर्यमजस्य वारणी ,
न चाक्षुषे हन्त ! विडम्बनैषा ।। २१ ।। अहं प्रतीत्या खलु जीवसिद्धिः ,
यथा तवाग्रे गदितेन्द्र भूते ! । स्वरूपवच्यान्यकलेवरेऽपि ,
तं चिन्मयं विध्यनुमानतस्त्वम् ॥ २२ ॥ . प्रक्षारिण नित्यं परचालितत्वात् ,
इमान्यथाहुः करणानि विज्ञाः । स्वतन्त्रमेषां हि नियामकं कं ,
जीवं विना वक्ष्यसि गौतम ! त्वम् ॥ २३ ॥ संघातरूपस्य कलेवरस्य ,
स्वान्यस्ति जीवस्त्वनुमीयमानः ।। तनोश्च भोग्यत्वत एष एव ,
भोक्तानुमित्या किल साध्यमानः ॥ २४ ॥