SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षतश्चेतसि बेद्यमानं , सुखं तथा दुःखामदं सुसिद्धम् । तद्वत् प्रसारणान्तर साध्यताऽत्र , नापेक्ष्यते गौतम ! जीवसिद्धौ ॥ १५ ॥ मन्यस्व मैवं यदिय प्रतीतिः , देहेऽस्ति तस्मादयमेव जीवः । इत्थं यदि स्यात् तु कृते शरीरे , प्रतीतिरेषा न कथं द्विजेन्द्र ! ॥ १६ ॥ तथा त्वदीये हृदि जीवभावे , यः संशयश्चोस्थितवान् गुरगोऽयम् । विज्ञाननामा गुणिनं विहाय , कमाश्रितः स्याद् वद विप्रवर्य ! ॥ १७ ॥ देहस्तु मूर्तत्वजडत्वभावात् , गुणी न युक्तः खलु संशयस्य । तस्माद् गुणी सिद्धयति जीव एवा मूर्त्तत्वभाबादजडत्वभावात् ॥ १८ ॥ प्रत्यक्ष एवास्ति गुरगोऽम्बरस्य , शब्दः परं व्योम कथं परोक्षम् । न शङ्कितव्यं द्विजराज ! चैवं , शब्दो गुरगः पौद्गलिको न खस्य ॥ १६ ॥
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy