________________
बृहस्पतिर्वक्ति न किञ्चिदत्र ,
__ भूतानि रिक्त किल वस्तु जातम् । वदन्ति वेदा अपि तद्वदेव ,
__ ह्य त्पद्य विज्ञानघनोऽन्तमेति ॥ १० ॥ असौ च विज्ञानघनो मृदायो ,
वायुः कृशानुश्च न भिन्न एभ्यः । नैतेषु जीवो नहि जीव एते
तस्मान्न जीवः किल सिद्धिमेति ॥ ११ ॥ केचिच्च वेदार्थविदो वदन्ति ,
स्वर्गेच्छुकोऽग्नि जुहुयात् सदैव । जडानि भूतानि प्रियाप्रियारिण ,
चेच्छन्ति वेदेषु विरोध एषः ॥ १२ ॥ शून्यत्ववादे परमप्रवीणाः ,
बौद्धाः जगच्छ न्यमुदाहरन्ति ।। उत्पद्य भूतानि हि यान्ति नाशं ,
तस्मान्न वै सिद्धयति जीवसत्ता ॥ १३ ॥ इत्थं त्वदीये हृदयेऽस्ति शङ्का ,
तामिन्द्रभूते ! वितनोमि नष्टाम् । सिद्धान्ततः त्वं शृणु सावधानः ,
जीवस्य सिद्धौ गदितं प्रमारणम् ॥ १४ ॥