SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ वेदितव्यः । तथाहि घटाद् व्यावर्तते पट:, घटव्यावृत्ति - स्वभावतया, स्तम्भादपि चेत् घटव्यावृत्तिस्वभाव तथैव व्यावर्तते, तर्हि बलात् स्तम्भस्य घटस्वरूपता प्रसक्तिः, अन्यथा ततस्तत्स्वभावतया तद् व्यावृत्ययोगात् । तस्मात् यतो व्यावर्त्तते यत् तत् व्यावृत्ति निमित्तभूताः स्वभावाः अवश्यं प्रभ्युपगन्तव्याः । "ग्रन्यच्चोच्यते-इह यद्यपि तादात्म्येन धर्मिणा धर्माः सर्वे व्याप्ताः तथाप्ययं धर्मी च एते धर्माः इति परस्परं भेदेन भेदवन्तं सन्ति प्रन्यथा तद्भावानुपपत्तिः । तथा च सति प्रतीति बाधा, मिथो भेदेऽपि धर्माधर्मणां व्याप्तव्यात् । अभेद: ग्रपि अस्ति, अन्यथा तस्य धर्मा इति सम्बन्धस्य अनुपपत्ति: ततश्च न सर्वेषां वीतरागत्वप्रसङ्गः । केवलभेदस्य अनभ्युपगमात् नापि दोषक्षये तद् ग्रात्मनोऽपि क्षयः । ततो निर्वाण साधकानुष्ठानकालोऽप्युक्त एवं तस्माद् प्रस्ति निर्वाणम् (मोक्षम् ) सिद्धमेवेति । " एवं च सर्वज्ञविभुवीतरागश्रीवर्द्धमानस्वामिनो युक्तियुक्तसत्यवचनैः छिन्नसन्देहः । षोडशवयेऽप्यातिप्रतिभासम्पन्नः एकादशम श्री प्रभासपण्डितोऽपि स्वत्रिशतछात्र परिवारसमेतः प्रव्रजितः । तत्क्षणाच्च “उपन्नेइ वा ( १ ) विगमेइ वा (२) धुवेइ वा ( ३ ) " इति प्रभुश्री महावीरस्वामिनोवदनाद् त्रिपदीं प्राप्य द्वादशाङ्गी विरचितवान् । ।। इति श्रीप्रभासनाम एकादशमो गरणधरः ॥ ( ५३ )
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy