________________
एकादश मुख्याः
1
एवं चतुश्चत्वारिंशच्छतानि ( ४४०० ) परिवारयुक्ताः विप्राः सर्वज्ञविभुश्रीवर्द्धमानस्वामिनोऽन्तिके प्रत्रजिताः । तेषु मध्ये मुख्यानां श्रीइन्द्रभूति प्रमुखानां एकादशानां उत्पाद-व्यय- ध्रौव्यरूप त्रिपदी - ग्रहणपूर्वकं एकादशाङ्गचतुर्दशपूर्वरचना गणधरपदप्रतिष्ठा च तत्र श्रीआचाराङ्गादिसूत्ररूप- द्वादशाङ्गीरचनाऽनन्तरं सर्वज्ञविभुश्रीमहावीर भगवांस्तेषां तदनुज्ञां करोति । तस्मिन् समये शक्रेन्द्रश्च दिव्यं दिव्यं वज्रमयस्थालं दिव्यचूर्णानां भृत्वा त्रिलोकनाथः सन्निहितो भवति । ततः श्रीवीरविभुः दिव्यरत्नमयसिंहासनाद् समुत्थाय सम्पूर्णां दिव्यचूर्णमुष्टि गृह्णाति । ततः श्रीइन्द्रभूतिप्रमुखा एकादशापि गणधरा ईषदवनताः क्रमशः तिष्ठन्ति देवा: दिव्यवाजित्रध्वनिगीतादिनिषेधं विधाय तूष्णीकाः शृण्वन्ति । भगवान् श्रीवर्द्धमानस्वामी पूर्वं तावत्
तदनु ततो कथयति - ' गौतमस्य
द्रव्य-गुण- पर्यायंस्तीर्थं अनुजानामि चूरपश्चि तन्मस्तके क्षिपति, तस्मिन् समये विबुधा अपि दिव्यचूर्णपुष्पगन्ध वृष्टि तस्योपरि कुर्वन्ति, गरणं च वै श्रीवर्द्धमानविभुः दीर्घायुषि पञ्चमगरणधरं श्रीसुधर्मस्वामिनं धुरि व्यवस्थाप्य अनुजानाति । अधुनाऽपि वर्त्तमानकालीन जिनशासने विभुश्रीमहावीरस्य सुधर्मस्वामिनः पट्टपरम्परा प्रवर्त्तते ।
(
"
५४ )