________________
" त्वं मन्यसे -संसारभवो मोक्षः, संसारश्च रागादिनिबन्धनः, रागादीनां चात्यन्तिकः क्षयोऽनुपपन्नः । रागादयः जन्तोः श्रनादिमन्तः इति सत्यम् । यच्चानादिमत् न तद् विनाशमाविशति । तथा प्रमाणेन प्रतीतेः । तच्च प्रमाणमिदं यदनादिमत् न तद् विनाशमाविशति । यथाssकाशं प्रनादिमन्तश्च । रागादय आत्मनो व्यतिरिक्ता वा भवेयुः प्रव्यतिरिक्ता । व्यतिरेके सर्वेषां वीतरागत्वप्रसङ्गः । तद् व्यतिरिक्तत्वात् विवक्षितपुरुषवत् । तथैव आत्मनोऽपि क्षयप्रसङ्गः । तदव्यतिरिक्तत्वात् तत्स्वरूपं ग्रतः कुतस्तस्य वस्तुतो मोक्षः ? तस्यैवाभावात् इति ।
वा
" त्वं सुष्ठु न जानासि । प्रतस्तेषां प्रयमर्थः - "जरामर्यं वा यदग्निहोत्रं" तत् यावज्जीवं सर्वकालं कर्त्तव्यम् । शब्दात् मोक्षार्थमपि अनुष्ठानं विधेयम् । नाऽपवर्गप्रापरण क्रियारम्भ कालास्तिता निषिद्धा | तथा यद्यपि रागादयो दोषा जन्तोरनादिमन्तस्तथाऽपि कंस्यचिद् स्त्रीशरीरादिषु यथावस्थित वस्तुतत्त्वागमेन तेषां प्रतिपक्षभावनातः प्रतिक्षरणमपचयो दृश्यते । उच्यते - प्रतिबन्धग्रहणात् यथा स्पर्शस्याद्या रोमाञ्चादयः शीतप्रतिपक्षस्य वह्न ेः मन्दतायां मन्दा उपलब्धाः, उत्कर्षे च निरन्वयविनाशधर्मारणः । ततः अन्यत्राऽपि बाधकस्य मन्दतायां बाध्यस्य मन्दता दर्शनात् । बाधकोत्कर्षे बाध्यस्यावश्यं निरन्वयविनाशः ( ५२ )
72