________________
यदेतदाग्निहोत्रं तत् जरामयं एव-यावज्जीवं कर्त्तव्यम्, अर्थात् सर्वदा कर्तव्यमिति । अत्र अग्निहोत्रस्य सर्वदा कर्त्तव्यता प्रोक्ता, अग्निहोत्रक्रिया च निर्वाण (मोक्ष) कारणं न भवति, शबलत्वात् । केषाञ्चिद्वधकारणं तथा केषाञ्चिद् उपकारकारणमिति । ततो निर्वाणसाधकाऽनुष्ठानक्रियाकालस्याऽनुक्तत्वात् मोक्षो नास्तीति । तस्माद् मोक्षाभावः प्रतीयते ।
"तथा "द्वे ब्रह्मणी वेदितव्ये, परम्परं च, तत्र परं सत्यज्ञानं, अनन्तरं ब्रह्म" इति । इत्यादिवेदपदैः मोक्षसत्ता प्रतीयते । इति तव सन्देहः स्यात् । एतद्विषये पूर्वं कथितम्-“यदेतदग्निहोत्रं तत् जरामयं एव०" यावज्जीवं कर्तव्यमिति, अग्निहोत्रक्रिया च भूतवधहेतुत्वात् शबलरूपा। सा च स्वर्गफलैव स्यात्, नापवर्गफला, यावज्जीवमिति चोक्त कालान्तरं नास्ति । अत्रापवर्गहेतुभूतक्रियान्तरारम्भः, तस्मात् साधनाभावात् मोक्षाभावः । तदेवममूनि वेदपदानि मोक्षाभाव प्रतिपादकानि । तथा "द्वे ब्रह्मणी वेदितव्ये.” इति तु तद् (मोक्ष) सत्ता सूचक्रानि। यतो गुहाऽत्र युक्तिरूपा, सा च जगदाभिनन्दिना दुःखगाहा। तथा परं ब्रह्म मोक्षः अनन्तरं तु ज्ञानमिति । अमनि मोक्षास्तित्वप्रतिपादकानि, इति तव संशयः ।
( ५१ )