________________
(११) अथ एकादशमो गणधरः श्रीप्रभासः 'मोक्ष संशयः '
तान् पूर्वोक्तान् श्रीइन्द्रभूत्यादिमेतार्यपर्यन्तान प्रधानदशपण्डितान् निजछात्र परिवारसहितान् प्रव्रजितान् श्रुत्वा षोडशलघुवयवान् एकादशमः श्रीप्रभास पण्डितोऽपि स्वत्रिशत छात्र परिवारसमेतः सर्वज्ञविभुश्री महावीरसकाशमा गच्छति । स च प्रभुसमीपं गत्वा सर्वज्ञविभुं वन्दित्वा च प्रमुदितस्तदग्रतस्तस्थौ । प्राभाष्य च सुमधुरवाण्या विभुना प्रोक्तम्
निर्वारणविषय सन्देह संयुतं च प्रभासनामानम् । ऊचे विभुर्यथास्थं वेदार्थं किं न भावयसि ? 11
"हे प्रभास ! किं निर्वाणं (मोक्षं) प्रस्ति न वा इति मन्यसे । संशयस्तवोऽयं विरुद्ध वेदपदश्रुतिनिबन्धनः । तानि चामूनि वेदपदानि - "जरामयं वा यदग्निहोत्रं" तथा "द्वे ब्रह्मरणी वेदितव्ये, परमपरं च तत्र परं सत्यज्ञानं, अनन्तरं ब्रह्म" इति । तेषां प्रयमर्थस्तव चेतसि अनुभूयते । ( ५० )