________________
1
मानवादिपर्यायनिवृत्त्या देवादिपर्यायान्तरप्राप्तिः प्रस्ति अविरुद्धा इति परलोकसिद्धिः । यदपि च नित्याऽनित्यैकान्तपक्षोक्तं दूषणं तदपि जात्यान्तरात्मक - नित्यानित्य शबलरूपपक्षम्-प्रभ्युपगमेन तिरस्कृतान्नेति । अतस्तेषां पदानां अर्थं अस्मदुक्तप्रकारेण विभावय यथा सन्देहो निवर्तते ।
एवं च सर्वज्ञविभुश्रीवर्द्धमानस्वामिनो युक्तियुक्तसत्यवचनैः छिन्नसन्देहो दशमश्री मेतार्यः पण्डितोऽपि निजत्रिशतछात्र परिवारसहितः प्रव्रजितः । तत्क्षणाच्च “उपन्नेइ वा ( १ ) विगमेइ वा (२) धुवेइ वा ( ३ ) " इति विभुश्रीवीरवदनाद् त्रिपदीं प्राप्य द्वादशाङ्गीं विरचितवान् ।
॥ इति श्रीमेतार्य नाम दशमो गरणधरः ॥
( ४९ )