________________
इत्यादीनि च । तेषां पदानामर्थं अस्मद् पूर्वोक्तप्रकारेण विभावय ।
हे मेतार्य ! एवं त्वं मन्यसे-भूतसमुदायधर्मश्चैतन्यमिति कुतो भवान्तरलक्षणपरलोकसम्भवः । भूतसमुदायविनाशे चैतन्याऽपि विनाशात् । अन्यमपि-भवेदात्मा तथापि स नित्योऽनित्यो वा ? तत्र नित्यपक्षे अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया परलोकाभावः । अनित्यपक्षेऽपि निरन्वयविनश्वरस्वभावतया कारणक्षणस्य सर्वथाविनाशे उत्तरकालमिह लोकोऽपि क्षणान्तरा प्रभव इति कुतः परलोकसम्भवः ?
. तत्र वेदपदानां चाऽर्थोऽयम्-तत्र विज्ञानघनेत्यादीनां तु पूर्वमेव विशदविश्लेषितञ्च व्याख्यातम् । न च भूतसमुदायचैतन्यं, सन्निकृष्टदेहो लब्धावपि चैतन्यविशेषानुपलम्भात् । यथा घटात् पटः नोपलभ्यते च देहोपलब्धावपि चैतन्यविशेष इति । इतश्च देहादन्यच्चैतन्यं चलनादिचेष्टा निमित्तत्वात् । इह यत् यस्य चलनादिचेष्टा निमित्तं तत् ततो भिन्नं दृष्टं, यथा मरुत् पादपात् चलनादिचेष्टानिमित्तं च चैतन्यं देहस्येति । न देहस्य धर्मचैतन्यं, किन्त्वात्मनः तस्य चानादिमत्कर्म समालिङ्गितत्वाद् उत्पाद-व्यय-ध्रौव्ययुक्तत्वात्, कर्मपरिणामापेक्षा जनादि वा
( ४८ )