________________
(१०) अथ दशमो गणधरः श्रीमेतार्यः 'परलोकसंशयः '
तान् पूर्वोक्तान् श्रीइन्द्रभूत्यादीन् प्रधाननवपण्डितान् प्रव्रजितान् श्रुत्वा दशमः श्रीमेतार्य पण्डितोऽपि निजत्रिशतछात्रपरिवारसमेतः सर्वज्ञविभुश्रीवीरसकाशं प्रागच्छति । स च प्रभुसमीपं गत्वा जगन्नाथं नमस्कृत्य प्रमुदितस्तदग्रतस्तस्थौ । ग्राभाष्य च सुमधुरवाण्या प्रभुरणा प्रोक्तम्
अथ परभवसन्दिग्धं, मेतायं नाम पण्डितप्रवरम् । ऊचे विभुर्यथास्थं वेदार्थं किं न भावयसि ? ॥
यतः किं परलोको भवान्तरगतिलक्षणोऽस्ति किं वा नाऽस्ति ? इति मन्यसे, हे मेतार्य ! तव हृदये परलोक- विषये सन्देहोऽस्ति । अयञ्च तव संशयः विरुद्धवेदपदनिबन्धनोऽस्ति । तानि चामूनि वेदपदानि - विज्ञानघन एवंतेभ्यो भूतेभ्यः " तथा " स वै अयमात्मा ज्ञानमयः "
( ४७ )
-