________________
स्वसुखसाधकत्वात् । तथा चारणीयसो हेमपिण्डादरण रपि सौवर्णः । एवं घटो भवति न मार्तिको राजतः ।
अन्यच्च-केवलसुखानुभवोऽनुत्तरदेवानां तथा केवलदुःखानुभवो नारकाणां श्रूयते । न च सर्वथा संमिश्रैकरूपात् कारणादेवं विविक्तः कार्यभेदो युक्तः । तथाहिहास्यादिपुरुषवेदशुभायुर्नामगोत्रारिण पुण्यमन्यत् पापम्, सर्वं च तत् कर्मेति । तस्माद् विविक्ते पुण्य-पापे इति प्रतिपत्तव्यम् । सर्वस्यापि च संसारिण एतदुभयमप्यस्ति केवलं किञ्चित् कस्यचिदुपशान्तं वा क्षीणं वा उदीर्णं ततः सुख-दुःखवैचित्र्यं जन्तूनामितिवेदपदैः पुण्यपापयोः सिद्धिश्चेति ।
एवं च विभश्रीवीरवचनैः छिन्नसन्देहो नवमश्रीप्रचलभ्राताभिधोऽपि पण्डितः स्वत्रिशतछात्र परिवारसमेतः प्रव्रजितः । तत्क्षणाच्च " उपन्नेइ वा ( १ ) विगमेइ वा ( २ ) धुवेइ वा (३) " इति सर्वज्ञविभुश्रीवर्द्धमानस्वामिनो वदनाद् त्रिपदीं प्राप्य द्वादशाङ्गी विरचितवान् ।
'
॥ इति श्रीप्रचलभ्राताभिधो नवमो गरणधरः ॥
( ४६ )